Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 01.09
मासो वै प्रजापतिः। तस्य कृष्णपक्ष एव रयिः। शुक्लः प्राणस्तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन्। अहोरात्रे वै प्रजापतिः। तस्याहरेव प्राणो रात्रिरेव रयिः। प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते। ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥९॥
Bhāṣya 01.09
"मासस्थितः स भगवान् पक्षयोर्वाक्च मारुतः। अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ्निशि॥
दम्पत्योर्भगवान् विष्णुः भार्यास्था तु सरस्वती। भर्तृस्थः स स्वयं वायुः एवं जानन् विमुच्यते॥"
इति प्रजापतिसंहितायाम्।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.