Mundaka 6.09
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित् कुले भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥९॥
Bhāshya 6.09
"परं ब्रह्म विदित्वा तु बृंहितः स्यात् स्वयोग्यतः। नायोग्यं किञचिदाप्नोति कुत एव हरेर्गुणान्॥"
इति च।
"ब्रह्मत्वं बृंहितत्वं स्याज्जीवानां न परात्मता। अस्वतन्त्रस्य जीवस्य कुतो नित्यस्वतन्त्रता॥"
इति स्कान्दे।
"यत्रामृतः स पुरुषो ह्यव्ययात्मा", "यत्र तत्सत्यस्य परमं निधानम्", "अमृतस्यैष सेतुः", "शरवत् तन्मयो भवेत्", "ब्रह्म तल्लक्ष्यमुच्यते", "निरञ्जनः परमं साम्यमुपैति"
इत्यादिना मुक्तस्य सर्वत्र भगवत्सकाशात् भेदस्यैवोक्तत्वाच्च।
"मुक्तोपसृप्य व्यपदेशात्", "जगद् व्यापारवर्जम्", "प्रकरणादसन्निहितत्वात्"
इत्यादिना भगवता सर्वत्र भेदस्यैव सूचितत्वात्।
"न ते महित्वमन्वश्नुवन्ति।"
"सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता।"
"ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते। तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे॥"
इत्यादेश्च।
"मुक्तेभ्योऽपि मनुष्येभ्यो देवा एव गुणाधिकाः। तेभ्यो वायुस्ततो विष्णुः परिपूर्णगुणः सदा॥ ये त्वेतदन्यथा विद्युः ते हि यान्त्यधरं तमः। ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम्॥"
इति च।
"देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते। बलवद्धेतुतश्चान्ये यस्माद् ब्रह्मविदः सुराः॥ न सन्ततौ ब्रह्मविदो नराणां ज्ञानिनामपि। प्रायशः स्युः सुराणां च नियमोऽयं कृते युगे॥"
इति च।