Mithyātvānumānakhaṇḍanam (मिथ्यात्वानुमानखण्डनम्)
Mithyātvānumānakhaṇḍanam (मिथ्यात्वानुमानखण्डनम्)
मिथ्यात्वानुमानखण्डनम्
‘विमतं मिथ्या दृश्यत्वात्, यदित्थं तत्तथा, यथा सम्प्रतिपन्नम्(शुक्तिरजतम्) ’
इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः । अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः । सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता । दृश्यत्वाभावादसिद्धो हेतुः । अनिर्वचनीयासिद्धेरेव सपक्षाभावाद्विरुद्धः । आत्मनोऽपि दृश्यत्वादनैकान्तिकः । जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः ।
प्रत्यक्षादिविरुद्धत्वाद्
‘विश्वं सत्यम्’
इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः ।
‘रजतं दृष्टम्’
इति भ्रममात्रत्वात्
‘विमतं सत्यं दृश्यत्वात्, आत्मवत्’
इत्यपि प्रयोज्यत्वात् प्रकरणसमः ।
‘विमतं सत्यं प्रमाणदृष्टत्वात्, यदित्थं तत्तथा, यथात्मा’
इति प्रयोगात् सप्रतिसाधनः । शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात् साध्यविकलो दृष्टान्तः । उक्तप्रकारेण दृश्यत्वाभावात् साधनविकलः । प्रमाणविरुद्धत्वमुपाधिः ।
साध्यधर्मविशिष्टः पक्षः । साध्यसमानधर्मविशिष्टः सपक्षः । साध्यविपरीतधर्मविशिष्टः विपक्षः । पक्षवचनं प्रतिज्ञा । लिङ्गं हेतुः । निदर्शनं दृष्टान्तः ॥
यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना । निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रपञ्चमिथ्यात्वानुमानखण्डनम् ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.