Māndukyōpanishad Bhāshya
Māndukya 2.01
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञमदृष्टं अव्यवहार्यं अलक्षणं अचिन्त्यं अव्यपदेश्यं ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते।
स आत्मा स विज्ञेयः ॥१॥
Bhāshya 2.01
"विष्णुस्तुरीयरूपेण द्वादशान्ते व्यवस्थितः। मुक्तानां प्राप्यरूपोऽसौ व्यवहारे न दृश्यते॥
सम्यक् समाहितानां तु प्राप्तानां षोडशीं कलाम्। अपरोक्षदृशां क्वापि तुरीयं दृश्यते पदम्॥
अन्तर्बहिश्च सौप्तं च समाधिज्ञानमेव च। बहिः शब्दादिकं जानन् पश्यन् स्वप्नं तथैव च॥ यदा भवति साऽवस्था ह्युभयज्ञानशब्दिता। एतत् सर्वं तुरीयेण रूपेण न करोत्यजः। सर्वज्ञानप्रदश्चापि मुक्तस्यैव तुरीयकः॥"
इति ब्रह्माण्डे।
"अमुक्तस्य त्वदृश्यत्वात् षोडशीं वा कलामृते। तुरीयोऽदृष्ट इत्युक्तो ग्रहणादेरगोचरः॥
विना मुक्तिं ततस्तेनाव्यवहार्य इतीरितः। जाग्रदादिप्रवृत्तिस्तु लक्षणं ह्यनुमापकम्॥
अलक्षणस्तद्राहित्यादचिन्त्यस्तत एव च। तत एव ह्यनिर्देश्यश्चिदानन्दैकलक्षणः॥
मुक्तस्य सर्वव्यापारहेतुरेव तुरीयकः। एकः प्रधान उद्दिष्ट आत्मा पूर्णत्वतः श्रुतः॥
तदेवास्य स्वरूपं यद् ईकात्म्यं तेन कीर्तितः। प्रत्ययो ज्ञानरूपत्वात् सार आनन्दरूपतः॥
प्रपञ्चो विस्तृतेर्विष्णुः शम आनन्दरूपतः। उत्कृष्टानन्दरूपत्वादुपशब्दः प्रकीर्तितः॥
प्रपञ्चं देहबन्धाख्यं तुरीयः शमयेद्यतः। प्रपञ्चोपशमस्तेनाप्युक्तः स भगवान् प्रभुः॥
निर्दुःखसुखरूपत्वाच्छिवशब्दः श्रुतौ श्रुतः। अन्यथाप्रत्ययो द्वैतं शमयेत् तं यतो हरिः॥ अद्वैतस्तेन चोद्दिष्टस्तुरीयः पुरुषोत्तमः॥"
इति माहात्म्ये॥
"अपेक्ष्य वस्तुयाथार्थ्यं द्वित्वमन्यस्वरूपता। इण् गताविति धातोश्च तज्ज्ञानं द्वैतमुच्यते॥"
इति सङ्कल्पे।
"स आत्मा स विज्ञेयः" इति "सोऽयमात्मा चतुष्पादि" इति चतुर्धा विभक्त उच्यते उपसंहारार्थम्। "सोऽयमात्माऽध्यक्षरम्" इति पृथगारम्भात्।
"विश्वादिरूपो यस्त्वात्मा स विज्ञेयो मुमुक्षुभिः। निर्विशेषोऽपि भगवांश्चतुर्धा समुदीरितः॥"
इति प्रत्यये।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.