Māndukyōpanishad Bhāshya
Māndukya 1.06
एष सर्वेश्वरः एष सर्वज्ञः एषोऽन्तर्यामी। एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥६॥
Bhāshya 1.06
"एष चतूरूप आत्मा सर्वज्ञत्वसर्वेश्वरत्वादिलक्षणः॥ परमात्मा चतूरूपः सर्वप्राणिशरीरगः। विश्वश्च तैजसः प्राज्ञस्तुरीयश्चेति कथ्यते॥
तानि रूपाणि सर्वाणि पूर्णानन्दमयानि तु। चेतोमुखानि सर्वाणि पूर्णज्ञानस्वरूपतः॥
मुखशब्दस्तु सर्वस्य देहस्याप्युपलक्षणः। तथाऽपि मुखशब्दोऽयं पूर्णत्वं सूचयेद्विभोः॥ ज्ञानस्य मुख्यवाचित्वान्मुखवाच्यपि सन् स्वतः॥"
इति मार्कण्डेये॥
"पूर्णानन्दस्वरूपस्य क्रीडा भोगो न चान्यथा। यथाऽदित्यस्य दीपेन न विशेषोऽस्ति कश्चन॥"
इति ब्रह्मतर्के ॥६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.