Māndukyōpanishad Bhāshya
Māndukya 1.05
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवाऽनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥५॥
Bhāshya 1.05
"सुषुप्तं तु तमो ज्ञेयं हरिं प्राप्य तदावृतः। न कामयेन्नैव पश्येज्जीवः स्वात्मतमो विना॥ कालं च तस्य स्थानस्य पतिः प्राज्ञो हरिः स्वयम्। चित्तस्थो दर्शयेद् यस्मात् तैजसः स्वप्नकृद्धरिः॥ न बाह्यं ज्ञापयेद् यस्माद् प्राज्ञस्तेन जनार्दनः। एकीभावं व्रजेतां च तेन विश्वश्च तैजसः॥ एकीभूतस्त्वतः प्राज्ञो घनो जीवस्तमोवृतः। तन्मात्रस्य सकालस्य घनप्रज्ञः प्रदर्शनात्॥"
इति प्रकाशिकायाम्।
आनन्दमयः पूर्णानन्दः। चेतोमुखः ज्ञानस्वरूपमुखः। प्रज्ञानघन इति विपरीतसमासः। घनप्रज्ञ इति वक्ष्यमाणत्वात्। विषयभोगं विना आनन्दमात्र भुक्त्वाद् आनन्दभुगिति विशेषः।
आनन्दमयत्व चेतोमुखत्वसर्वज्ञत्वसर्वेश्वरत्वादि चतुष्टयेऽपि समम्। अन्यत्रातिदेशार्थं एकत्र आनन्दमयत्वं चेतोमुखत्वं च उक्तम् ॥५॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.