Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
2.3.12 and 13
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा। अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥१२॥
अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः। अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥१३॥
Bhāṣya 2.3.12 and 13
"अधिकः सतोऽयं भगवान् सर्वस्मादपि केशवः। अस्तीति नामकः तस्मात् ज्ञातव्यः स तथैव च॥
अनाधिक्यं जानतां तु कथं स उपलभ्यते। प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम्। तत्त्वभावः ततो विष्णुः तत्प्रसादात्तु तस्य हि॥
आधिक्यं ज्ञायते सत्तः प्रसादश्च तथाविदः। अनादिकालादाधिक्यं सर्वस्माज्जानतो हरेः॥
पुनः पुनः वृद्धिमेति तज्ज्ञानं हि भवे भवे। येषामाधिक्यविज्ञानं नैव पूर्वं हरेर्भवेत् ॥
तेषां पश्चाच्च नैव स्यात् अभिभूतं तु तत् पुनः। व्यञ्जकाद् व्यक्तिमभ्येति तस्मात् तज्ज्ञानमुत्तमम्॥"
इति च ॥१२-१३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.