Kāthakopaniṣat Bhāshya (काठकोपनिषत् )
1.3.10 and 11
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ॥१०॥
महतः परमव्यक्तं अव्यक्तात् पुरुषः परः। पुरुषान्नपरं किञ्चित् सा काष्ठा सा पराः गतिः ॥११॥
Bhāṣya 1.3.10 and 11
"देवेभ्यः इन्द्रियात्मभ्यो ज्यायांसोऽर्थाभिमानिनः। सोमवित्तपसूर्याप्पा: अश्व्ग्नीन्द्रेन्द्रसूनवः॥
यमो दक्षश्चेन्द्रियेशाः सुपर्णी वारुणी तथा। उमेति चार्थमानिन्यः तिस्रो द्विद्व्येकदेवताः॥
मनोऽभिमानिनो रुद्रवीन्द्र शेषास्त्रयोऽपि तु। ते श्रेष्ठा अर्थमानिभ्यः तेभ्यो बुद्धिस्सरस्वती॥
तस्या ब्रह्मा महानात्मा ततोऽव्यक्ताभिधा रमा। तस्यास्तु पुरुषो विष्णुः पूर्णत्वान्नैव तत्समः। कश्चित् कुतश्चित् श्रेष्ठस्तु नास्तीति किमु सा कथा॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.