1.2.07
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥७॥
śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ. āścaryo'sya vaktā kuśalo'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ ॥7॥
[श्रवणाय अपि (śravaṇāya api) - even for hearing; बहुभिः (bahubhiḥ) - by many; यः (yaḥ) - who; न (na) - not; लभ्यः (labhyaḥ) - is attainable; शृण्वन्तः अपि (śṛṇvantaḥ api) - even hearing; बहवः (bahavaḥ) - many; यम् (yam) - him; न (na) - not; विद्युः (vidyuḥ) - know; आश्चर्यः (āścaryaḥ) - wondrous; अस्य (asya) - of him; वक्ता (vaktā) - the speaker; कुशलः (kuśalaḥ) - skillful; अस्य (asya) - of him; लब्धा (labdhā) - the attainer; आश्चर्यः (āścaryaḥ) - wondrous; ज्ञाता (jñātā) - the knower; कुशल-अनुशिष्टः (kuśala-anuśiṣṭaḥ) - well-instructed;]
He is not attainable even for hearing by many; many though hearing do not know Him. Wondrous is the speaker of him, skillful the one who attains Him, wondrous the knower, taught by the skillful.