Determination and observance of the Krishna Jayantī (जयन्तीनिर्णयः)
रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत्। जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी ॥१॥
~~~
यस्यां जातो हरिः साक्षान्निशीथे भगवानजः। तस्मात्तद्दिनमत्यन्तं पुण्यं पापहरं परम् ॥२॥
~~~
तस्मात् सर्वैरुपोष्या सा जयन्ती नाम वै सदा। द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥३॥
~~~
यो भुङ्क्ते तद्दिने मोहात्पूयशोणितमत्ति सः। तस्मादुपवसेत् पुण्यं तद्दिनं श्रद्धयान्वितः ॥४॥
~~~
कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः। प्रभातकाले मेधावी योगायेति यथाविधि ॥५॥
~~~
नित्याह्निकं प्रकुर्वीत भगवन्तमनुस्मरन्। मध्याह्नकाले च पुमान् सायङ्काले त्वतन्द्रितः। स्नायीत पूर्वमन्त्रेण वासुदेवमनुस्मरन् ॥६॥
~~~
ततः पूजां प्रकुर्वीत विधिवत्सुसमाहितः। यज्ञायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् ॥७॥
~~~
कृष्णं च बलभद्रं च वसुदेवं च देवकीम्। नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत्। अर्घ्यं दत्वा समभ्यर्च्याभ्युदिते शशिमण्डले ॥८॥
जातः कंसवधार्थाय भूभारोत्तारणाय च। कौरवाणां विनाशाय दैत्यानां निधनाय च ॥९॥
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च। गृहणार्घ्यं मया दत्तं देवक्या सहितो हरे ॥१०॥
~~~
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव। गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥११॥
~~~
दत्वार्घ्यं मनुनानेन ह्युपस्थाय विधुं बुधः। शशिने चन्द्रदेवाय सोमदेवाय चेन्दवे ॥१२॥
मृगिणे सितबिम्बाय लोकदीपाय दीपिने। शीतदीधितिबिम्बाय तारकापतये नमः ॥१३॥
~~~
उपसंहृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः। विश्वायेति च मन्त्रेण ततः स्वापं समाचरेत् ॥१४॥
~~~
ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम्। सर्वायेति च मन्त्रेण ततः पारणमाचरेत्। धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥१५॥
~~~
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो जयन्तीनिर्णयः समाप्तः॥