Bhagavad Gīta Bhāshya and Tātparya
B.G 14.27
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२७॥
Gīta Tātparya 14.22
ब्रह्मप्राप्तो मत्प्राप्त इव एव भवतीत्याह- ब्रह्मणोहीति॥
मदवियोगात् तस्या अपि मत्स्थ एव भवतीत्यर्थः। तथापि मत्प्राप्तिक्रमविवक्षया तदुक्तिः। एकान्तिकस्य सुखस्य मोक्षस्य ॥२७॥
एकान्तिकस्य सुखस्य मोक्षस्य ॥२७॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये चतुर्दशोध्यायः॥
॥ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे प्रकृतिगुणत्रयविभागयोगो नाम चतुर्दशोध्यायः॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.