Bhagavad Gīta Bhāshya and Tātparya
B.G 13.27 and 28
यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥२७॥
समं हि सर्वभूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥२८॥
Gīta Tātparya 13.27 and 28
क्षेत्रक्षेत्रज्ञसंयोगात् - इत्यत्र क्षेत्रं श्रीः।
"मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्"
इति वक्ष्यमाणत्वात्।
"अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि। उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषचिद्धना॥
सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा। जीवोत्तमा च तेनैतैः शब्दैरेकाभिधीयते॥
महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः। अहं कर्तेति येनायं जीवो मंस्यत्यसौ शिवः॥
अहङ्कार इति प्रोक्तो जीवाहङ्कृतिकृद्यतः। उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः॥
मतिदो मन उद्दिष्टः इन्द्रः स्कन्दोपि तत्सुतः। श्रोत्रं तु श्रावयन् चन्द्रः स्पर्शो वायुसुतो मरुत्॥
चक्षुः सूर्यः चक्षयति जिह्वा वारिपतिर्हृतेः। अश्विनौ घ्राणमाघ्रातेः वागग्निर्वचनादपि॥
हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिलाभयोः। पादौ तु विष्णुनाविष्टौ यज्ञशम्भू शचीसुतौ॥
पदनादेव पायुश्च भुक्तस्यैवाप्ययाद्यमः। सन्तत्युपस्थितिकृतेरुपस्थः सशिवो मनुः॥
विनायकस्तथाकाशो निरावृत्या प्रकाशनात्। प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः॥
अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जलम् । अदनात् प्रथनात् जन्मलयहेतोः तथाभिधाः॥
शब्दाद्याः पञ्च शिवजाः शब्दनात् स्पर्शनादपि। रूपणाद् रसनाच्चैव गन्धनाच्च तथाभिधाः॥
सुखं धृतिश्चेतना च सुखनाद् विधृतेरपि। चेतोनेतृत्वतश्चैव मुख्यवायुसरस्वती॥
श्रीश्चेच्छाश्च्ैव सा वायोः पत्नीत्वेवं धृतिर्मता। इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः॥
पृथक् पृथक् च कथ्यन्ते लक्ष्म्याद्या उदिता अपि। दुःखद्वेषौ कलिश्चैव द्वापरो ब्रह्मणः सुतौ॥
प्रवरावसुराणां तौ सङ्घातश्चेतनाः परे। एतैरभिमतं यच्च तत्तन्नाम्नाभिधीयते॥
चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमितीरितम्। क्षितिरेतद्भगवतो यदतः क्षेत्रमीर्यते॥
क्षिणोति त्राति चैवेतदतो वा क्षेत्रमीरितं। एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः॥
क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम्॥
इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम्। विकारा इति यस्मात्ते विशेषविकृतिस्थिताः॥
विशेषात् क्रियते यस्मात् विकारः कार्यमन्तिमम्। विगतं करणं चात्र पुनर्नाशमृते यतः॥
तत्सम्बन्धादत् विकाराख्या इच्छाद्या अभिमानिनः। एतत्सर्वं सर्वदैव निर्दोषेणैव चक्षुषा॥
प्रेरयन्नेव जानाति यत् क्षेत्रज्ञो हरिस्ततः॥"
इति च।
"यस्यात्मा शरीरम्" इत्यादिश्रुतेः चेतनस्यापि "इदं शरीरं कौन्तेय" इति शरीरत्वोक्तिर्युज्यते।
"सत्त्वं जीवः क्वचित् प्रोक्तः क्वचित् सत्त्वं जनार्दनः। सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते॥"
इति शब्दनिर्णये।
"तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्"
इति च पैङ्गिश्रुतिः।
जनी प्रादुर्भावे इति धातोः जीवस्यापि शरीरे व्यक्त्यपेक्षया जनिर्युज्यते ॥२७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.