B.G 13.25 and 26
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥२५॥
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥२६॥
Gīta Tātparya 13.25 and 26
अनादियोग्यताभेदात् पुंसां दर्शनसाधनम्। नानैव तत्र विष्णोस्तु प्रसादाद् वैष्णवं वपुः॥
स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः। तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन॥
ऋषयः केचिद्रुषयो नारदाद्याः बहिस्त्वपि। देवा विष्णुप्रसादेन लब्धसत्प्रतिभाबलात्॥
सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात्। पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेपि तु। येषां ध्यानमृते दृष्टिः तेषां ध्यानेपि दर्शनम्॥
स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माधिकोऽत्र च। केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः। यजन्तो भक्तिमन्तश्च यज्ञ भागार्थमागतम्॥
श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम्। पश्यन्त्यन्ये तथान्येभ्यः सर्वं श्रुत्वाऽनुमत्य च॥ उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन॥
ऋषीन् राज्ञः तथारभ्य प्रतिभाऽभ्यधिका क्रमात्। यावद् ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम्॥
विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः। अन्येषां श्रवणात् ज्नानं क्रमशो मानुषोत्तरम्। अत्यल्पप्रतिभानत्वात् मानुषाः श्रुतवेदिनः। सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः॥"
इति च।
-------------------------------Possible Later addition START ----------------------------
अन्येषामपि किञ्चित् श्रवणे विद्यमानेऽपि मानुषाणामत्यल्पप्रतिभानत्वात् श्रुत्वाऽन्येभ्यः इति विशेषणम्। मनुष्याणां प्रतिभा मूलप्रमाणापेक्षा प्रायो न सम्यगुत्पद्यते अल्पा च इति "श्रुतिपरायणाः" इति।
"अश्रुतप्रतिभा यस्य श्रुतिस्मृतिविरोधिनी। विश्रुता नृषु जातं च तं विद्यात् देवसत्तमम्। यश्च स्वमुखमानेन नवाधोदेहवान् पुमान्।
अष्टमानवती स्त्री च षण्णवत्यङ्गुलौ पुनः। दशतालौ सप्तपादौ विद्यात् तौ च सुरोत्तमौ। यावत् पञ्चाङ्गुलोनं तद्देवमानं क्रमात् परम्॥
पादे त्वङ्गुलमात्रोनं तदूनं चतुरङ्गुलम्। यावद्देवोपदेवानां पादे चोनाङ्गुलं पुनः। तावन्मनुष्यमानं स्यात् ततोऽधस्त्वासुरं स्मृतम्।
द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुलादधः। ज्ञेयमङ्गुलमानं तदुपदेवादिषु स्फुटम्। देवेष्ववरवद् ज्नेयमृषीणां चक्रवर्तिनाम्।
यावद् यावत् प्रियो विष्णोः तावत् स्त्रीपुंस्वरूपिणः। हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम्॥
इति च॥
-------------------------------Possible Later addition END ----------------------------