B.G 5.04 and 05
साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम् ॥४॥
यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५॥
Gīta Tātparya 5.04 and 05
बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारः, गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते। तन्न पण्डिता मन्यन्ते। कुतः? यस्मात् ज्ञानमार्गं कर्म मार्गं च सम्यक् आस्थितः उभयोरपि फलं प्राप्नोति ॥४॥
तस्माज्ज्ञानिनां कर्माऽपि अनुष्ठेयम्। कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान्। न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति।
"निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते। निवृत्तं सेवामानस्तु ब्रह्माभ्येति सनातनम्। बुद्ध्याऽविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत्। वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः॥
मुक्तिरस्तीति नियमो ब्रह्मदृग् यस्य विद्यते। तस्याप्यानन्दवृद्धिः स्यात् वैष्णवं कर्म कुर्वतः॥
कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम्। तस्मात् कर्मेति तत्प्राहुः यत्कृतं ब्रह्मदर्शिना॥
एतस्मात् न्यासिनां लोकं संयान्ति गृहिणोऽपि हि। ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि। तस्मादाश्रमभेदोऽयं कर्मसङ्कोचसम्भवः॥"
इति व्यासस्मृतेः ॥५॥