Bhagavad Gīta Tātparya
B.G 4.25 and 26
दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन् विषयानन्य इंद्रियाग्निषु जुह्वति ॥२६॥
Gīta Tātparya 4.25 and 26
दैवं विष्णुमेव यज्ञ इत्युपासते। स्वभोग्यत्वात्स्वयमेव यज्ञः। ब्रह्माख्याग्नौ क्रियायज्ञं तेनैव यज्ञाख्येन विष्णुना समर्पयन्ति। तत्पूजात्वेन श्रोत्रादिसंयमं कुर्वन्ति। तत्पूजात्वेन विषयान् भुञ्जते ॥२५, २६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.