Bhagavad Gīta Bhāshya and Tātparya
B.G 18.78
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥७८॥
Gīta Bhāshya 18.78
पूर्णादोषमहाविष्णोः गीतामाश्रित्य लेशतः। निरूपणं कृतं तेन प्रीयतां मे सदा विभुः॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये अष्टादशोध्यायः ॥
Gīta Tātparya 18.78
नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम। समस्तगुणसम्पूर्णनिर्दोषानन्ददायिने॥
मध्वो यत्तु एतत् मुना ग्रन्थः कृतः केशवे निःशेषदोषरहित कल्पाणाशेषसद्गुण। भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम्॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये अष्टादशोऽध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.