Bhagavad Gīta Bhāshya and Tātparya
B.G 16.05
दैवी सम्पद्विमोक्षाय निबन्धायाऽसुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥५॥
Gīta Bhāshya 16.05
दैवीं सम्पदं अभि जातः प्रति जातः ॥५॥
Gīta Tātparya 16.05
देवासुरलक्षणम्-
"येऽतिमानेन मन्यन्ते परमेशोऽहमित्यपि। मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति॥
मिथ्यात्वान्नेश्वरोऽस्यास्ति परेभ्यो न च जायते। स्वस्मिन्नपि तथान्यस्मिन् नियन्ताऽन्य इतीरिते॥
प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः। अयोग्येशत्वकामाच्च लोभाच्चात्मसमर्पणे॥
तत्त्ववेदेषु कोपाच्च तमस्तेषां न दुर्लभम्। अक्षानुमागमानां च स्वोक्तेरपि विरोधिनः॥
यस्मात् तेतोऽसुरा ज्ञेया एवमन्येऽपि तादृशाः। ये तु विष्णुं परं ज्ञात्वा यजन्ते नान्यदेवताः॥ प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः॥
इति ब्रह्मवैवर्ते।
'निबन्धाय' नीचस्थानेन्धे तमसि बन्धाय।
"सर्गाणां सुबहुत्वेऽपि शुभाशुभपलाधिकौ। देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः। मुक्तिगा एव विज्ञेया देवा एव विमुक्तिगाः॥"
इति च।
'विमोक्षाया' इत्यत्र वि इति उपसर्गादेव च मोक्षनानात्वं ज्ञायते।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.