B.G 14.22
श्रीभगवानुवाच
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥
Gīta Bhāshya 14.22
प्रायो न द्वेष्टि न काङ्क्षति। तथाहि सामवेदे भाल्लवेयशाखायाम्-
"रजस्तमःसत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वेष्टि न चापि काङ्क्षते। तथापि सूक्ष्मं सत्त्वगुणं च काङ्क्षेत् यदि प्रविष्टं सुतमश्च जह्यात्॥"
इति।
न हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम। हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः मताः। कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्॥
इति मोक्षधर्मे।
Gīta Tātparya 14.22
लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति। स्वयम्प्रकाशी मोहोज्झस्तथापि पुनरिच्छति। विष्णौ प्रकाशं तं चैव नित्यभक्त्याऽभिसेवते। सुखदुःखादिभावेऽपि विष्णुभक्तौ समः सदा॥
अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि। न विष्णुभक्तिह्रासोऽस्य किन्तु साम्यमथोन्नतिः। अवैष्णवारम्भवर्जी विष्णुं याति न संशयः॥
इति च ॥२२॥