B.G 13.32
अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥३२॥
Gīta Bhāshya 13.32
न च व्ययादिः तस्य इत्याह - अनादित्वात् इति।
सादिः प्रायः व्ययि गुणात्मकं च। 'न करोति' इत्यादेःअर्थः उक्तः पुरस्तात् - न लौकिकः क्रियादिः तस्य, अतो 'न प्रज्ञम्' इत्यादिवदिति।
Gīta Tātparya 13.32
शरीरस्थो जीवः।
"स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति॥"
इति श्रुतेः।
"शरीरस्थस्तु संसारी शरीराभिमतेर्मतः। विष्णुः शरीरगोऽप्येष न शरीरस्थ उच्यते॥
शरीराभिमतिर्यस्मात् नैवास्यास्ति कदाचन। तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते। तदभावान्नाभिमानी भगवान् पुरुषोत्तमः॥"
इति च।
अनादित्वात् निर्गुणत्वात् परमात्मा जीवोऽपि न। किमुत जडं न भवतीति। शरीरोत्पत्तिलक्षणमप्यादिमत्त्वं परमस्य नास्तीति विशेषः। जीवस्य हि तदस्तीति। सत्त्वादिगुणसम्बन्धश्च।
सर्वं करोति परमात्मा। तथापि न लिप्यते। वादि प्रसिद्धत्वादेव 'इष्टापूर्तं मन्यमाना वरिष्ठम्' इत्यादिवत् निषेधः।
"कुर्वाणोऽपि यतः सर्वं पुण्यपापैः न लिप्यते। जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जितः। विष्णुः तद्विपरीतस्तु जीवोऽतस्तौ पृथक् सदा॥"
इति च।
'स एष नेति नेति'
इत्यादि च ॥३२॥