B.G 12.12
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२॥
Gīta Bhāshya 12.12
अज्ञानपूर्वात् अभ्यासात् ध्यानमेव विशिष्यते। ज्ञानमात्रात् सज्ञानं ध्यानम्। तथा च सामवेदे आनभिम्लानशाखायाम्-
"अधिकं केवलाभ्यासाद् ज्ञानं तत्सहितं ततः। ध्यानं ततश्चापरोक्षं ततः शान्तिर्भविष्यति॥"
इति।
"ध्यानात् कर्मफलत्यागः" इति तु स्तुतिः। अन्यथा कथम् असमर्थोऽसि इत्युच्यते। तयोस्तु कर्मसन्नयासात् कर्मयोगो विशिष्यते। इति चोक्तम्।
"सर्वाधिकं ज्ञानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ती परात्मन्। कर्माफलाकाङ्क्षमथो विरागः त्यागश्च न ध्यानकलाफलार्हः॥"
इति च काषायणशाखायाम्।
वाक्यसाम्येऽपि असमर्थविषयत्वोक्तेः तात्पर्याभावः इतरत्र प्रतीयते। ध्यानादिप्राप्तिकारणत्वाच्च त्यागस्तुतिर्युक्ता। केवलध्यानात् फलत्यागयुक्तं ध्यानं अधिकम्। ध्यानयुक्त त्याग एव चात्रोक्तः। अन्यथा कथम्- "त्यागात् शान्तिररनन्तरम्" इत्युच्यते। कथं च ध्यानादाधिक्यम्। तथा च गौपवनशाखायाम्-
"ध्यानात्तु केवलात् त्यागयुक्तं तदधिकं भवेत्॥"
इति।
न हि त्यागमात्रानन्तरमेव मुक्तिर्भवति। भवति च ध्यानयुक्तात्। केवलत्यागस्तुतिरेवमपि भवति। यथा "अनेन युक्तो जेता, नान्यथा" इत्युक्ते ॥१२॥
Gīta Tātparya 12.12
"विष्णोरन्यं न स्मरेद् यो विना तत्परिवारताम्। तदधीनतां वाऽनन्ययोगी स परिकीर्तितः॥"
इति च।
अन्तवत्तु फलं तेषाम्" इत्यादिना अन्यदेवतोपासनायाः पूर्वं निन्दितत्वात् लक्ष्म्यास्तु अतिसामीप्यात् विशेषमाशङ्क्य तदुपासनाविषय एव प्रश्नः कृतः।
"वैष्णवान्येव कर्माणि यः करोति सदा नरः। जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च॥
स तत्कर्मेति विज्ञेयो योऽन्यदेवादिपूजनम्। कृत्वा हरावर्पयति स तु तद्योगमात्रवान्॥
तत्र पूर्वो विशिष्टः स्यादादिमध्यान्ततः स्मृतेः। अवान्तरे च नियमात् विष्णोः तद्दासतास्य यत्॥
मनसा वर्ततेऽन्योपि यथाशक्ति हरिस्मृतेः। पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति। असम्यग् ज्ञानिनो ध्यानात् ज्ञानमेव विशिष्यते। ज्ञात्वा ध्यानं ततस्तस्मात् तत् फलेच्छाविवर्जितम्॥
तस्माद् ज्ञानाद् भवेद् मुक्तिः त्यागाद् ध्यानयुतात् स्फुटम्॥"
इति च।
शान्तिः मुक्तिः ॥४-१२॥