Bhagavad Gīta Bhāshya and Tātparya
B.G 11.34
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥३४॥
Gīta Bhāshya 11.34
योऽस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यति इति तत्पितुः वरात् जयद्रथोऽपि विशेषेण उक्तः। सवरा वासवी शक्तिः इति कर्णः ॥३४॥
Gīta Tātparya 11.34
जयद्रथस्य पितुः वरादेव विशेषः। निहताः निहतप्रायाः। पश्चात् अर्जुने स्थित्वा स एव हनिष्यति ॥३४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.