B.G 9.18
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥
Gīta Bhāshya 9.18
गम्यते मुमुक्षुभिः इति गतिः। तथाहि सामवेदे वासिष्ठशाखायाम्-
"अथ कस्मादुच्यते गतिरिति। ब्रह्मैव गतिः। तद्दि गम्यते पापमुक्तैः॥"
इति।
साक्षादीक्षते इति साक्षी। तथाहि बाष्कलशाखायाम्-
"स साक्षादिदमद्राक्षीत् तत् साक्षिणः साक्षित्वम्॥"
इति।
शरणं आश्रयः संसारभीतस्य।
"परमं यः परायणम्"
इति ह्युक्तम्।
"नारायणं महाज्ञेयं विश्वात्मानं परायणम्॥"
इति च।
संहारकाले प्रकृत्या जगदत्र निधीयते इति निधानम्।
तथाहि ऋग्वेदखिलेषु-
"अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः॥"
इति ॥१८॥
Gīta Tātparya 9.18
"तत्तत्पदार्थभिन्नोऽपि तत्तन्नामैवमच्युतः। स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवलम्॥"
इति च।
"ओमित्याक्रियते यस्मादोङ्कारो भगवान् हरिः॥"
इति च।
"पातीति स पिता मानान्माता यत् पितुर्महान्। पितामहो निधातृत्वात् निधानं भीतरक्षणात्। शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः॥"
इति च।
प्रलयकाले संहर्तृत्वात् प्रलयः। अन्यदापीति मृत्युः।
"प्राणगः प्राणधर्ता यदमृतं प्रविलापयन्। विश्वं प्रलय इत्युक्तो मृत्युरन्यत्र मारणात्॥"
इति च।