Bhagavad Gīta Bhāshya and Tātparya
B.G 8.28
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाऽद्यम् ॥२८॥
Gīta Bhāshya 8.28
एते सृती सोपाये ज्ञात्वा अनुष्ठाय न मुह्यति। तच्चाह स्कान्दे-
"सृती ज्ञात्वा तु सोपाये चानुष्ठाय च साधनम्। न कश्चित् मोहमाप्नोति न चान्या तत्र वै गतिः॥"
इति ॥२५- २८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये अष्टमोध्यायः ॥
Gīta Tātparya 8.28
"मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः। सर्वपुण्यातिगोऽमुह्यन् यात्यसौ ब्रह्म तत्परम्॥"
इति च ॥२५- २८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये अष्टमोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.