B.G 6.46 and 6.47
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥४७॥
Gīta Bhāshya 6.46 and 6.47
ज्ञानिभ्यः योगज्ञानिभ्यः। तपस्विभ्यः कृच्छ्रादिचारिभ्यः। उक्तं च-
"कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते। तत्रापि शेष श्रीब्रह्मशिवादिध्यानतो हरेः। ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्॥"
इति गारुडे।
"अज्ञात्वा ध्यायिनो ध्यानात् ज्ञानमेव विशिष्यते। ज्ञात्वा ध्यानं ज्ञानमात्राद् ध्यानादपि तु दर्शनम्। दर्शनादपि भक्तेश्च न किञ्चित् साधनाधिकम्॥"
इति नारदीये॥४६, ४७॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये षष्ठोध्यायः॥
Gīta Tātparya 6.47
"तपसश्चैव यज्ञादेः ध्यानमेव विशिष्ठते। अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ज्ञानमप्यतः॥ तत्रापि मय्यभक्तस्य नान्यद्ध्यानं प्रयोजकम्। अन्यसामान्यविद्यो मे यश्चान्यं नेति पश्यति॥
अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः। मद्भक्तोऽपि हि कार्यार्थं यो ध्यायेदन्य देवताम्। परिवारतामृते तस्मात् केवलं मदुपासकः। वरोऽन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः॥"
इति दत्तात्रेयवचनम् ॥४६,४७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये षष्ठोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे समाधियोगप्रपञ्चनं नाम षष्ठोध्यायः ॥