Bhagavad Gīta Bhāshya and Tātparya
B.G 6.31
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥३१॥
Gīta Bhāshya 6.31
एतदेव स्पष्टयति - सर्वभूतस्थितम् इति॥
एकत्वम् आस्थितः सर्वत्र एक एव ईश्वरः इति स्थितः। सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते। एवम् अपरोक्षं पश्यतः ज्ञानफलं नियतम् इत्यर्थः। तथापि प्रायः नाधर्मं करोति। कुर्वतस्तु महच्चेत् दुःखसूचकं भवति इत्युक्तं पुरस्तात्। आह च -
"कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत्। प्रमादात्तु कृतं पापं स्वल्पं भस्मीभविष्यति। आदिराजैस्तथा देवैः ऋषिभिः क्रियते कियत्। बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत्॥"
इति ॥३१॥
Gīta Tātparya 6.31
सर्वत्र विष्णुरेक इति स्थितः ॥३१॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.