B.G 6.05 and 06
उद्धरेदात्मनाऽत्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥
बन्धुरात्माऽत्मनस्तस्य येनात्मैवाऽत्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेताऽत्मैव शत्रुवत् ॥६॥
Gīta Bhāshya 6.05 and 06
स च योगारोहः प्रयत्नेन कर्तव्यः इत्याह - उद्धरेदित्यादिना।
कस्य बन्धुः आत्मा इत्यत आह - बन्धुरात्मेति।
आत्मा मनः। आत्मनः जीवस्य। आत्मना मनसा। आत्मानं जीवम्। आत्मैव मनः। आत्मना बुद्ध्या, जीवेनैव वा। स हि बुद्ध्या विजयति। उक्तं च -
"मनः परं कारणमामनन्ति।"
"मन एव मनुष्याणां कारणं बन्धमोक्षयोः।"
"उद्धरेन्मनसा जीवं न जीवम् अवसादयेत्। जीवस्य बन्धुः शत्रुश्च मन एव न संशयः॥"
"जीवेन बुद्ध्या हि यदा मनो जितं तदा बन्धुः शत्रुरन्यत्र चास्य। ततो जयेद्बुद्धिबलो नरस्तद्देवे च भक्त्या मधुकैटभारौ॥"
इत्यादि ब्रह्मवैवर्ते।
अनात्मनः अजितात्मनः पुरुषस्य, अजितमनस्कस्य। सदपि मनः अनुपकारि इत्यनात्मा। सन्नपि भृत्यो न यस्य भृत्यपदे वर्तते स हि अभृत्यः। तस्य आत्मा मन एव शत्रुवत् शत्रुत्वे वर्तते ॥६॥
Gīta Tātparya 6.05 and 06
"उद्धरेतैव संसारात् जीवात्मानं परात्मना। विष्णुः बन्धुः सतां नित्यं परात्मा ह्यसतामरिः। तत्प्रसादजया भक्तया जितो यस्य वशे त्विव। वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत्॥"
इति च।
परमात्मा समाहितः इति वाक्यशेषाच्च ॥५,६॥