B.G 5.02
श्री भगवानुवाच
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥२॥
Gīta Bhāshya 5.02
नायं संन्यासो यत्याश्रमः-
"द्वन्द्वत्यागात् तु संन्यासात् मत्पूजैव गरीयसी॥"
इति वचनात्।
"तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्।"
इति च।
"संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः। न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते॥ तद्भक्तोपि हि यद्गच्छेत् तद्गृहस्थो न धार्मिकः। मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते। यदाऽधिकारो भवति ब्रह्मचार्यपि प्रव्रजेत्॥"
इति नारदीये।
"ब्रह्मचर्यादेव प्रव्रजेत्। यदहरेव विरजेत्॥"
इति च।
"संन्यासे तु तुरीये वै प्रीतिर्मम गरीयसी। येषामत्राधिकारो न तेषां कर्मेति निश्चयः॥"
इत्यादेश्च ब्राह्मे।
अतो नात्र आश्रमः संन्यास उक्तः ॥२॥
Gīta Tātparya 5.02
एकपुंयोग्यौ एतौ, तयोः मध्ये योग एव विशिष्टः इति परिहाराभिप्रायः। उभौ समुच्चितौ।
"संन्यासस्तु महाबाहो दुःखमाप्तुमयोगत"
इति वक्ष्यमाणत्वात् ॥२॥