B.G 4.09
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९॥
Gīta Bhāshya 4.09
पृथङ्ग् मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थम्। न तु तावन्मात्रेण मुक्तिः इत्युक्तम्।
"वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम्। तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित्॥"
इत्युक्तेश्च महाकौर्मे।
अत्रोक्तस्य एतत् ज्ञात्वैव जन्म नैतीति गतिः। इतर वाक्यानां नान्या गतिः। 'नान्यस्य कस्यचित्' इति विशेषणात्। 'तत्त्वतः' इति विशेषणाच्च सर्वज्ञानम् आपतति। यत्रैवं भवति तत्र तत्त्वतः इति विशेषणे न विरोधः। उक्तं च–
"एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः। न समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेत्॥"
इति स्कान्दे ॥९॥
Gīta Tātparya 4.09
"येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक् पृथक्। वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात्॥ एवमेव शमादीनां नान्यथा तु कथञ्चन॥"
इति ब्रह्मवैवर्तवचनात्।
जन्म कर्म च इत्यादिषु न तावन्मात्रेण मोक्षः ॥९॥