B.G 3.20
कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि ॥२०॥
Gīta Bhāshya 3.20
आचारोपि अस्तीत्याह - कर्मणैवेति।
कर्मणा सह कर्म कुर्वन्तः एव इत्यर्थः। कर्म कृत्वैव ततो ज्ञानं प्राप्य वा। न तु ज्ञानं विना। प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु। 'तमेवं विद्वान्' इत्यादि श्रुतिभ्यश्च। अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च 'बुदि्धयुक्तः' इति। गत्यन्तरं च 'नान्यः पन्थाः' इत्यस्य नास्ति। इतरेषां ज्ञानद्वारापि अविरोधः।
यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते-
"ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा। अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ॥"
इत्यादौ तत्र पापादिमुक्तिः। स्तुतिपरता च। तत्रापि हि कुत्रचित् ब्रह्मज्ञानसाधनत्वमेव उच्यते अन्यथा मुक्तिं निषिद्ध्य-
"ब्रह्मज्ञानं विना मुक्तिः न कथञ्चिदपीष्यते। प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि॥"
इत्यादौ। न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेप्युक्तम् ज्ञाननियमं घ्नन्ति। यथा कञ्चिद् दक्षं भृत्यं प्रत्युक्तानि -
"अयमेव हि राजा किं राज्ञा"
इत्यादीनि।
यथाह भगवान्-
"यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च। स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा। भवेन्मोक्षस्तु मद्दृष्टेः र्नान्यतस्तु कथञ्चन॥"
इति नारदीये।
अतः अपरोक्षज्ञानादेव मोक्षः। कर्म तु तत्साधनमेव ॥२०॥
Gīta Tātparya 3.20
सहैव कर्मणा सिद्धिमास्थिता जनकादयः। ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम्॥ इति च।
अज्ञानां ज्ञानदं कर्म ज्ञानिनां लोकसङ्ग्रहात्। अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ॥२०॥