Bhagavad Gīta Bhāshya and Tātparya
B.G 3.19
तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥१९॥
Gīta Bhāshya 3.19
यतः असम्प्रज्ञातसमाधेरेव कार्याभावः तस्मात् कर्म समाचर ॥१९॥
Gīta Tātparya 3.19
यस्मादमुक्तस्य कार्यमस्त्येव तस्मादसक्तः। असक्त आचरन्नेव यस्मात् परमाप्नोति। मुक्तस्यैव कार्यं नास्ति इत्येवकारार्थोऽपि यस्तु इति तुशब्देन अवगतः।
"ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः। पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि॥"
इति भविष्यत्पर्ववचनाच्च न अर्जुनस्य अमुख्याधिकारिता। आत्मरतिरेव स्यादित्येव शब्देन मुक्तानामेभ्यो विशेषो दर्शितः। एषां कदाचिद् दुःखाभासस्यापि भावात् ॥१९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.