Bhagavad Gīta Bhāshya and Tātparya
B.G 2.30
देही नित्यमवध्योऽयं देहे सर्वस्य भारत। तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२-३०॥
Gīta Tātparya 2.30
देही कुतः अवध्यः? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूले च देहे रक्षकत्वेन अवस्थितः अत एव अवध्यः। न स्वसामर्थ्यं कस्यापि।
"द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥"
-इति हि भागवते।
"तत्र तत्र स्थितो विष्णुः नित्यं रक्षति नित्यदा। अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः। भावाभावनियन्ता हि तदेकः पुरुषोत्तमः॥"
-इति पाद्मे।
॥३० ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.