Bhagavad Gīta Bhāshya and Tātparya
B.G 2.29
आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवद् वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः श‍ृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२-२९॥
Gīta Bhāshya 2.29
देहयोगवियोगस्य नियतत्वात् आत्मनश्चेश्वर सरूपत्वात् सर्वथा अनाशात् न शोकः कार्यः इत्युपसंहर्तुम् ईश्वर सामर्थ्यं पुनर्दर्शयति आश्चर्यवदिति। दुर्लभत्वेन इत्यर्थः। तद्धि आश्चर्यं लोके। दुर्लभोपि इश्वरसरूपत्वात् सूक्ष्मत्वाच्च आत्मनः तद्द्रष्टा ॥२९-३८॥
Gīta Tātparya 2.29
किं तर्हि आश्चर्यो भगवानेवेत्याह - आश्चर्यवदिति। आश्चर्यमेव सन्तमेनम् आश्चर्यवत् पश्यति न पुनः अनाश्चर्यम्।"गगनं गगनाकारं सागरं सागरोपम्" -इत्यादिवत्।
"आश्चर्यो भगवान् विष्णुः यस्मान्नैतादृशं क्वचित्। तस्मात् तद्गोचरं ज्ञानं तद्गोचरवदेव तु" -इति ब्रह्मतर्के।
अनाश्चर्यवदपि असुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ॥२९॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.