Bhagavad Gīta Bhāshya and Tātparya
B.G 2.25
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२-२५॥
Gīta Bhāshya 2.25
अत एवाव्यक्तादिरूपः ॥ २५ ॥
Gīta Tātparya 2.25
सर्वगतश्चेत् परमात्मा किमिति तथा न दृश्यते इत्यतो वक्ति - 'अव्यक्तोयमिति'। कथमेतद् युज्यते अचिन्त्यशक्तित्वात्। न च सा शक्तिः कदाचिदन्यथा भवति। अविकार्यत्वात्। यानि यानि अस्य रूपाणि तानि सर्वाण्यपि एवंभूतानीति दर्शयितुमेनमयमित्यादि पृथग्वचनम्। जीवे तु सर्वजीवेषु अनुगमार्थम्। सर्वं चैतत् श्रुति सिद्धम् -
"सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः। ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः"
-इति पैङ्गिश्रुतिः।
"अदेहो देहवांश्चैकः प्रोच्यते परमेश्वरः। अप्राकृतशरीरत्वाददेह इति कथ्यते। शिरश्चरणबाह्वादिविग्रहोयं स्वयं हरिः। स्वस्मान्नान्यो विग्रहोस्य ततश्चादेह उच्यते। स्वयं स्वरूपवान् यस्मात् देहवांश्चोच्यते ततः। शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः॥"
"स च विष्णोर्न चान्योस्ति यस्मात् सोचिन्त्यशक्तिमान्। देहयोगवियोगादिस्ततो नास्य कथञ्चन॥"
"गुणरूपोपि भगवान् गुणभुक् च सदा श्रुतः। अहमित्यात्मभोगो यत् सर्वेषामनुभूयते॥"
"अभिन्नेपि विशेषोयं सदानुभवगोचरः। विशेषोपि हि नान्योतः स च स्वस्यापि युज्यते॥"
"नानवस्था ततः क्वापि परमैश्वर्यतो हरेः। युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते। प्रमाणावगते तत्र कुत एव ह्ययुक्तता॥"
-इत्यादिपरमश्रुतिः।
"गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का। चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः॥"
-इत्यादि च ऋग्वेदे सौपर्णशाखायाम्।
"एकमेवाद्वितीयं नेह नानास्ति किञ्चिन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति।"
"मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि। तथैवावयवानां च भेदं पश्यति यः क्वचित्॥
भेदाभेदौ च यः पश्येत् स याति तम एव तु। पश्येदभेदमेवैषां बुभूषुः पुरुषस्ततः॥
अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत्। विशेषिणां विशेषस्य तथाSभेदविशेषयोः॥
विशेषस्तु स एवायं नानवस्था ततः क्वचित्। प्रादुर्भावादिरूपेषु मूलरूपेषु सर्वशः॥
न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन।"
"मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः। राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः। दत्तो धन्वन्तरिर्यज्ञः कपिलो हंसतापसौ। शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः। नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम्॥"
"ब्रह्मरुद्रौ शेषविपौ शक्राध्याः नारदस्तथा। सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः॥ सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः। इत्याध्याः विष्णुनाविष्टाः भिन्नाः संसारिणो हरेः॥"
"तेष्वेव लक्ष्मणाद्येषु त्रिष्वेवं च बलादिषु। नरार्जुनादिषु तथा पुनरावेश उच्यते॥ स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः। एतज्जानाति यस्तस्मिन्प्रीतिरभ्यधिका हरेः। सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम्"॥
-इत्यादि महावराहे ॥२५॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.