Bhagavad Gīta Bhāshya and Tātparya
B.G 2.24
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २-२४॥
Gīta Bhāshya 2.24
वर्तमाननिषेधात् स्यादुत्तरत्र इत्यत आह – 'अच्छेद्य' इति। वर्तमानादर्शनात् युक्तमयोग्यत्वम् इति सूचयति वर्तमानापदेशेन। कुतोऽयोग्यता? नित्यसर्वगतादि विशेषणेश्वरसरूपत्वात्। ‘शाश्वतः’ इत्येकरूपत्वम् मात्रम् उक्तम्। स्थाणुशब्देन नैमित्तिकमन्यथात्वं निवारयति । नित्यत्वं सर्वगतत्वविशेषणम् । अन्यथा पुनरुक्तेः।
ऐक्योक्तावपि अनुक्तविशेषणोपादानात् न ईश्वरैक्ये पुनरुक्तिः। युक्ताश्च बिम्बधर्माः प्रतिबिम्बेऽविरोधे। तत्ता च -
"रूपं रूपं प्रतिरूपो बभूव"(ऋ.६.४७.१८)।
"आभास एव च" ( ब्र.सू.२.३.५०)
इत्यादि श्रुतिस्मृतिसिद्धा। न चांशत्वविरोधः। तस्यैवांशत्वात्। न चैकरूपैवांशता। प्रमाणं च उभयविधवचनमेव। न चांशस्य प्रतिबिम्बत्वं कल्प्यम्। गाध्यादिषु अंशबाहुरूप्यदृष्टेः। इतरत्रादृष्टेः।
स्थाणुत्वेऽपि 'ऐक्षत'(छां.उ.६.२.३) इत्याद्यविरुद्धम् ईश्वरस्य। उभय विधवाक्यात्। अचिन्त्यशक्तेश्च। न च माययैकम्।
"त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते" (भाग.१०.४.१९)
"न योगित्वादीश्वरत्वात्" (बृ.उ.भा.५.८.१२.उ. वाराहवचनम् ।)
"चित्रं न चैतत् त्वयि कार्यकारणे" (भाग. ५.१८.५.)
इत्याद्यैश्वर्येणैव विरुद्धधर्माविरोधोक्तेः।
महातात्पर्याच्च। मोक्षो हि महापुरुषार्थः।
"तत्रापि मोक्ष एवार्थः"।
"अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे। अन्तप्राप्तिं सुखं प्राहुः दुःख मन्तरमन्तयोः॥" (म.भा.१२.३१७.३४)
"पुण्यचितो लोकः क्षीयते"(छां.उ.)
इत्यादि श्रुतिस्मृतिभ्यः।
स च विष्णुप्रसादादेव सिद्ध्यति।
"वासुदेवम् अनाराध्य को मोक्षं समवाप्नुयात्"
"तुष्टे तु तत्र किमलभ्यमनन्त ईशे" (भाग.७.६.२५)
"तत्प्रसादादवाप्नोति परां सिद्धिं न संशयः"
"येषां स एव भगवान् दययेदनन्तः सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम्। ते वै विदन्त्यतितरन्ति च देव मायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये" (भाग.२. ७ .४२)
"तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते"
"ऋते यदस्मिन् भव ईश जीवाः तापत्रयेणोपहता न शर्म। आत्मन् लभन्ते भगवन् तवाङ्घ्रिच्छायांश विद्यामत आश्रयेम" (भाग.३.६.१८)
"ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह। तमेवं विद्वान्" (नृ.पू.उ.१.६)
इत्यादि श्रुतिस्मृतिभ्यः।
स चोत्कर्षज्ञानादेव भवति । लोकप्रसिद्धेः । लोकसिद्धम् अविरुद्धम् अत्रापि अङ्गीकार्यम् ॥
अहल्याजारत्वाद्यपि 'दोषकृतोऽपि ते न बहुतरो लेप आसीत् ' इति उत्कर्षमेव वक्ति। बहुनरकफलो ह्यसौ । ‘तस्य न लोम च न क्षीयते' (कौ.उ.३.२)। इति श्रुत्यन्तराच्च ।
'यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्' (१५.१९)इति तदुक्तेश्च।
'सत्यं सत्यं पुनस्सत्यं शपथैश्चापि कोटिभिः। विष्णुमाहात्म्यलेशस्य विभक्तस्य च कोटिधा॥
पुनश्चानन्तधा तस्य पुनश्चापि ह्यनन्तधा। नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः॥' इति नारदीये।
अन्योत्कर्ष ऐक्यं च -
'तथैव सर्वशास्त्रेषु महाभारतमुत्तमम्। को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्॥' (वि.पु.३.४.५)
इत्यादि ग्रन्थान्तरसिद्धोत्कर्ष महाभारतविरुद्धम्॥ तत्र हि -
'नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥' (म.भा.१.१.१८)
'यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः।' (म.भा.१२.३४१.१२)
'न त्वत्समोऽस्त्यभ्यधिकः’ (११.४३)
इत्यादिषु साधारणप्रश्नावसरे एव महान्तमुत्कर्षं विष्णोर्वक्ति। अन्यत्र यत्किञ्चिदुक्तावपि असाधारण एव अवसरे। तद्धि अग्न्यादेरपि वेदादावस्ति-
'त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः’ (ऋ.२.१.३)
'विश्वस्माद् इन्द्र उत्तरः'(ऋ.१०.८६.१) ।
- इत्यादिषु
तद्ग्रन्थविरोधाच्च। तथा हि स्कान्दे शैवे।
"यदन्तरं व्याघ्रहरीन्द्रयोर्वने यदन्तरं मेरुगिरीन्द्रविन्ध्ययोः। यदन्तरं सूर्यसुरेड्यबिम्बयोः तदन्तरं रुद्र महेन्द्रयोरपि। यदन्तरं सिंहगजेन्द्रयोर्वने यदन्तरं सूर्य शशाङ्कयोर्दिवि। यदन्तरं जाह्नविसूर्यकन्ययोः तदन्तरं ब्रह्मगिरीशयोरपि॥ यदन्तरं प्रलयजवारिविप्लुषोः यदन्तरं स्तम्ब हिरण्यगर्भयोः। स्फुलिङ्गसंवर्तकयोर्यदन्तरं तदन्तरं विष्णु हिरण्यगर्भयोः। अनन्तत्वान्महाविष्णोः तदन्तरमनन्तकम्। माहात्म्यसूचनार्थाय ह्युदारणमीरितम् ॥"
'तत्समो ह्यधिको वापि नास्ति कश्चित् कदाचन। एतेन सत्यवाक्येन तमेव प्रविशाम्यहम्॥'
इत्याद्याह। तत्रैव शिवं प्रति मार्कण्डेयवचनम् -
'संसारार्णवनिर्मग्न इदानीं मुक्तिमेष्यसि'
इत्यादि। पाद्मे शैवे मार्कण्डेयकथाप्रबन्धे शिवान्निषिद्ध्य विष्णोरेव मुक्तिमाह -
'अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः'
इत्यादि। समब्राह्मविरोधाच्च।
वेदश्च इतिहासाद्यविरोधेन योज्यः। "यदि विद्यात्" इति वचनात्। अनिर्णयाच्च इन्द्रादिशङ्कया अन्यथा। तत्रापीष्टसिद्धिः। नामवैशेष्यात्। अतो भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यम्॥
तथापि स्वतः प्रामाण्यात् सन्नेवोच्यते। अविरोधात्। न च प्रमाणसिद्धस्य अन्यत्रादृष्ट्या अपह्नवो युक्तः। धर्मवैचित्र्यात् अर्थानाम्। स्वतः प्रामाण्यानङ्गीकारे च मानोक्तावपि अदोषत्वं च साधयेत् इत्यतिप्रसङ्गः॥
अनन्यापेक्षया च तत्परत्वं सिद्धम् आगमानाम्।
"नारायणपरा वेदाः" (भाग.२.५.१५)।
"सर्वे वेदा यत्पदमामनन्ति" (कठ.२.१५)
"वासुदेवपरा वेदाः" (भाग.१.२.२९)
इति।
न चैतद्विरुद्धम्। ईश्वरनियमात्। अनादौ तत्सिद्धं
"द्रव्यं कर्म च कालश्च" ( भाग.२.१०.१२)
इत्यादौ।
प्रयोजकत्वं तु पूर्वोक्त न्यायेन। अतः सिद्धमेतत्।
तच्च अनन्यापेक्षा अचिन्त्यशक्तित्वे एव युक्तम्। अतो न मायामयम् एकम्।
अचलत्वं तु - ‘अप्रहर्षमनानन्दम्’, ‘अदुःखमसुखम्’, ‘न प्रज्ञम्’, (माण्डूक-२.१), ‘असद्वै’ (तै.उ.२.७) इत्यादिवत्।
क्रियादृष्टेः -
"तपो मे हृदयं ब्रह्म तनुर्विद्या क्रिया कृतिः" (भाग.६.४.४६)
इत्याद्युक्तेः । अतश्च न मायामयं सर्वम् । ऐश्वर्यादिवाचि भगशब्देनैव सम्बोधनाच्च
"तं त्वा भग"( तै. उ.१.११)
इत्यादौ। स्वरूपत्वात् न मायामयत्वं युक्तम्।
"विज्ञानशक्तिरहमासमनन्त शक्तेः" ( भाग.३.१०.२४)
"मय्यनन्त गुणेऽनन्ते गुणतोऽनन्तविग्रहे" (भाग.६.४.४८) ।
"पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" ( श्वे.उ.६.८) ।
इत्यादि वचनात् ॥२४ ॥
Gīta Tātparya 2.24
अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह - अच्छेद्योयमिति। नित्यं सर्वगते स्थितः। अणुश्चायमिति सर्वगतस्थाणुः सर्वगतो विष्णुः तदधीनत्वादिकं तत्स्थत्वम्। हेतुतोपि तत्स्थत्वात् न चलतीत्यचलः। नादेन शब्देन सह वर्तते इति सनादन एव सनातनः।
"नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः। न चास्य तदधीनत्वं हेतुतोपि विचाल्यते। निषेधविधिपात्रत्वात् सनातन इति स्मृऽतः॥" इति महाविष्णुपुराणे।
अच्छेद्योयमित्यादिपुनरुक्तिश्चान्यथा।
यस्मिन् अयं स्थितः सः अव्यक्ताचिन्त्यादिरूपः। एवं ज्ञातः परमेश्वरः सर्वदुःखनाशं करोतीति - 'नानुशोचितुमर्हसि'। 'तेषामहं समुद्धर्ता' इत्यादेः।
"न त्वेवाहं जातु नासं न त्वम्" इत्युभयोरपि प्रस्तुतत्वात्। 'देहिनः', 'शरीरिणः', 'देहि', इति विशेषितत्वाच्च जीवस्य तत्र तत्र।
"अविनाशि तु", "येन सर्वमिदं ततम्", "अनाशिनोप्रमेयस्य", "न म्रियते", "भूत्वा भविता न" "अविनाशिनम्", "अव्ययम्", "अव्यक्तोयमचिन्त्योयमविकार्योयम्" - इत्यादि परमात्मनश्च।
नहि जीवेन ततं सर्वम्। न च मुख्यतोप्रमेयोसौ। न च न म्रियते। न च अविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य। न च अव्यक्तत्वमविकार्यत्वं च मुख्यम्। न च भूत्वा भविता वा नेति देहस्याप्यनुत्पत्तिः। परमात्मनस्तु देहवियोगादिकमपि नास्तीत्यविनाशित्वादि विशेषणम्।
यस्मादेवं भूतः तस्मात् स एव स्वतन्त्रः। तदधीनमन्यत् सर्वम्। अतः स एव पुरुषार्थदः। अतः तत्पूजा सत्कर्मैव। अतः तदर्थं युध्यस्व।
अन्येषां तु अन्तवन्त एव देहाः। प्राकृतदेहिनश्च। अतः अस्वतन्त्रात् न हन्तुं तेषां सामर्थ्यम् नित्यत्वात् न हन्यते च। तस्मात् हन्ता हत इति मन्यमानौ न विजानीतः।
किन्तु यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते तत्संयोगरूपेणापि न जायते जीववत् कदापि अतः स एव स्वतन्त्रत्वात् सर्वस्य हन्ता। जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यते इत्येतावत्। अत एवमविनाशित्वादेः स्वातन्त्र्यात् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा।
वाससो जरावत् स्वशरीरजरादौ अस्वातन्त्र्यदर्शनात् सर्वत्र अस्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यम्। नैनं छिन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्य इति वर्तमानापदेशः। छेदादिकं तु ईश्वरः मोहाय मृषैव दर्शयति ॥२४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.