Bhagavad Gīta Bhāshya and Tātparya
B.G 2.21
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २-२१॥
Gīta Bhāshya 2.21
अतो य एवं वेद स कथं कं घातयति हन्ति वा। अविनाशिनं नैमित्तिकनाशरहितम्। नित्यं स्वाभाविकनाशरहितम् अथवा अविनाशिनं दोषयोगरहितम्। नित्यं सदा भाविनम्। इति सर्वत्र विवेकः । दोषयुक्त पुरुषादिषु नष्टशब्दप्रयोगात्॥ २१ ॥
Gīta Tātparya 2.21
अविनाशिनं शरीरापायादिवर्जितम्। नित्यं स्वरूपतः। एनं परमेश्वरम्।
"कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् ।तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत्" - इति परमश्रुतिः।
अन्यथा अविनाशिनं नित्यमिति पुनरुक्तिः ॥२१ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.