B.G 2.20
न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २-२०॥
Gīta Bhāshya 2.20
अत्र मन्त्रवर्णोऽप्यस्तीत्याह– न जायत इति॥ नचेश्वरज्ञानवद् भूत्वा भविता। तद्धि -‘तदैक्षत’ (छां.उ.६.२.३)।
‘देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः। अविलुप्तावबोधात्मा’ (भाग.३.७.५)
इत्यादि श्रुतिस्मृतिसिद्धम्।
कुतः? अजादिलक्षणेश्वरसरूपत्वात्। शाश्वतः सदैकरूपः। पुरं देहम् अणतीति पुराणः। तथाऽपि न हन्यते हन्यमानेऽपि देहे ॥२० ॥
G.B 2.20.2
Gīta Tātparya 2.20
जीवेश्वरयोः नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह - नजायते म्रियते इति। अयं ना परमपुरुषः भूत्वा विद्यमान एव देहसम्बन्ध रूपेणापि भविता न। मरणं तु देहवियोग इति सिद्धमेव। न हि घटादीनां मरणव्यवहारः। स्वरूपानाशः कैमुत्येनैव सिद्धः।
अयं जीवोSपि अजः नित्यश्च। अन्यथा पुनरुक्तेः। शाश्वतश्च। न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति।
अल्पशक्तिरसार्वज्ञ्यम् पारतन्त्र्यमपूर्णता। उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः। स्वाभाविकं तयोरेतत् नान्यथा स्यात् कथञ्चन। वदन्ति शाश्वतावेतावत एव महाजनाः॥ इति महाविष्णुपुराणे।
पुराणि अणति गच्छतीति पुराणः ॥२० ॥