Bhagavad Gīta Bhāshya and Tātparya
B.G 11.50
सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥५०॥
Gīta Bhāshya 11.50
स्वकं रूपं तु भ्रान्तप्रतीत्या। अन्यथा तदपि स्वकमेव। प्रमाणानि तु उक्तानि पुरस्तात् ॥५०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये एकादशोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.