B.G 11.32
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥३२॥
Gīta Bhāshya 11.32
कालशब्दः जगद्बन्धन च्छेदन ज्ञानादिसर्वभगवद्धर्म वाची।
"कल बन्धने", "कल च्छेदने", "कल ज्ञाने", "कल कामधेनुः"
इति पठन्ति।
प्रसिद्धश्च स शब्दः भगवति।
"नियतं कालपाशेन बद्धं शक्र विकत्थसे। अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः। बद्ध्वा तिष्ठति मां रौद्रः पशुं रसनया यथा॥"
इति मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति।
"विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे॥"
इति भागवते।
प्रवृद्धः परिपूर्णः अनादिर्वा।
"ऋतं च सत्यं चाभीद्धात्"
इति हि श्रुतिः।
"एतन्महद्भूतं अनन्तम्"
इति च।
"प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम"
इति च।
न तु वर्धनम्-
"नासौ जजान न मरिष्यति नैधतेऽसौ।"
इति हि भागवते।
"यस्य दिव्यं हि तद्रूपं हीयते वर्धते न च।"
इति मोक्षधर्मे।
"न कर्मणा" इति तु कर्मणापि न, किमु स्वयं इति।
लोकान् समाहर्तुं इह विशेषेण प्रवृत्तः। भ्रात्रादींश्च ऋते इति अपिशब्दः। प्रत्यनीकत्वं तु परस्परतया। सर्वेऽपि न भविष्यन्ति। अक्षोहिण्यादिभेदेन बहुवचनं युक्तम् ॥३२॥