Bhagavad Gīta Bhāshya and Tātparya
B.G 7.06
एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥
Gīta Bhāshya 7.06
न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यमित्याह - अहम् इति॥
प्रभवादेः । सत्ता प्रतीत्यादेः कारणत्वात् तद्भोक्तृत्वाच्च प्रभवः इत्यादि। तथाच श्रुतिः -
"सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः।"
इति। आह च -
"स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता। यतः सर्वस्य तेनाहं सर्वोऽसीत्यृषिभिः स्तुतः॥ सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः। आगमिष्यत् सुखं चापि तच्चास्त्येव सदापि तु। तथाप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च॥"
इति नारदीये ॥६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.