Bhagavad Gīta Bhāshya
B.G 4.25 and 26
दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन् विषयानन्य इंद्रियाग्निषु जुह्वति ॥२६॥
Gīta Bhāshya 4.25 and 26
यज्ञभेदान् आह - दैवम् इत्यादिना। दैवं भगवन्तम्। स एव तेषां यज्ञः। भगवदुपासनम् यज्ञम्, इति क्रिया विशेषणम्। नान्यत् तेषाम् अस्ति यतीनां केषाञ्चित्। यज्ञं भगवन्तम्।
"यज्ञेन यज्ञम्", "यज्ञो विष्णुर्देवता"
इत्यादिश्रुतिभ्यः।
यज्ञेन प्रसिद्धेनैव। यज्ञं प्रति यज्ञेन जुह्वतीति सर्वत्र समम् "तं यज्ञम्" इत्यादौ। उक्तं च-
"विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना। अयजन्मानसे यज्ञे पितरं प्रपितामहः॥"
इति ॥२५,२६॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.