Bhagavad Gīta Bhāshya
B.G 4.14
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बद्ध्यते ॥१४॥
Gīta Bhāshya 4.14
अत एव "न मां कर्माणि लिम्पन्ति " इतश्च न लिम्पन्तीत्याह - न मे कर्मफले स्पृहा॥
इच्छामात्रं तु अस्ति। न तु तत्र अभिनिवेशः। तच्चोक्तम्–
"आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्परः। न ह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु॥"
इति।
न च केचिन्मुक्ताः भवन्तीति क्रमेण सर्वमुक्तिः। तथाहि श्रुतिः-
"ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वान्।"
इति कथं वा इत्यनन्ता वा इत्यनन्तवदिति होवाच इति ॥१४॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.