Bhagavad Gīta Bhāshya
B.G 4.01, 02, and 03
श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥१॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप ॥२॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥
Gīta Bhāshya 4.01-03
बुद्धेः परस्य माहात्म्यं, कर्मभेदः, ज्ञानमाहात्म्यं च उच्यते अस्मिन्नध्याये।
पूर्वानुष्ठितश्चायं धर्मः इत्याह - इमम् इति ॥१-३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.