B.G 3.42 and 43
इंद्रियाणि पराण्याहुरिंद्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥४२॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥४३॥
Gīta Bhāshya 3.42 and 43
शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयम् आह - इंद्रियाणीति॥
"असङ्गज्ञानासिमादाय तरातिपारम्"
इति ह्युक्तम्।
शरीरात् इन्द्रियाणि पराणि उत्कृष्टानि। न केवलं बुद्धेः परः। श्रुत्युक्तप्रकारेण अव्यक्तादपि।
"अव्यक्तात् पुरुषः परः"
इति श्रुतिः।
न च तत्र तत्रोक्त ऐकदेशज्ञानमात्रेण भवति मुक्तिः। सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहार पादे अभिहितः-
"आनन्दादयः प्रधानस्य" (३.३.१२)
इत्यादिना।
तथा चान्यत्र-
"अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि। सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये। सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम्। तेषामेव भवेन्मुक्तिः नान्यथा तु कथञ्चन॥"
इति गारुडे।
तस्मात् अव्यक्तादपि परत्वेन ज्ञेयः। न चात्र जीवः उच्यते।
"रसोऽप्यस्य परं दृष्ट्वा"
इत्युक्तत्वात्।
"अविज्ञाय परं मत्तो जयः कामस्य वै कुतः"
इति च।
अतः परमात्मज्ञानमेवात्र विवक्षितम्। आत्मानं मनः। आत्मना बुद्ध्या ॥४२, ४३॥
॥इति श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः॥
Thus ends the Bhagavad Gīta Bhashya, third chapter.
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोध्यायः ॥