B.G 3.38, 39, and 40
धूमेनाव्रियते वह्निर्यथाऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥
इंद्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४०॥
Gīta Bhāshya 3.38, 39 and 40
कथं विरोधी सः। इदम् अनेनावृतम्। यथा धूमेन अग्निः आवृतः, प्रकाशरूपोऽपि अन्येषां न सम्यग्दर्शनाय तथा परमात्मा। यथा आदर्शः मलेनावृतः अन्यस्य अभिव्यक्तिहेतुः न भवति तथा अन्तःकरणं परमात्मादेः व्यक्तिहेतुः न भवति कामेन आवृतम्। यथा उल्बेन आवृत्य बद्धो भवति गर्भः तथा कामेन जीवः ॥३८॥
शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेन आवृतं ज्ञानिनोऽपि, किमु अल्पज्ञानिनः। कामरूपेण कामाख्येन नित्यवैरिणा। दुष्पूरेण दुःखेन हि कामः पूर्यते। न हि इन्द्रादिपदं सुखेन लभ्यते। यद्यपि इन्द्रादिपदं प्राप्तं पुनः ब्रह्मादिपदम् इच्छतीति लम्बुद्धिः न अस्तीति अनलः। उक्तं च-
"ज्ञानस्य ब्रह्मणश्चाग्नेः धूमो बुद्धेर्मलं तथा। आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः॥"
इति ॥३९॥
वधार्थं शत्रोः अधिष्ठानमाह - इंद्रियाणीति। एतैः ज्ञानम् आवृत्य। बुद्ध्यादिभिर्हि विषयगैः ज्ञानम् आवृतं भवति ॥४०॥