Bhagavad Gīta Bhāshya
B.G 3.37
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुण समुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३७॥
Gīta Bhāshya 3.37
यस्तु बलवान् प्रवर्तकः स एष कामः। क्रोधोऽपि एष एव। तज्जन्यत्वात्। 'कामात् क्रोधोऽभिजायते' इति ह्युक्तम्। यत्रापि गुरुनिन्दादिनिमित्तः क्रोधः तत्रापि भक्तिनिमित्ता निन्दाकामनिमित्त एव। ये तु अन्यथा वदन्ति ते सङ्करात् न सूक्ष्मं जानन्ति। उक्तं च-
"ऋते कामं न कोपाद्या जायन्ते हि कथं चन"
इति।
महाशनः, महद्धि कामभोग्यम्। महाब्रह्महत्यादि कारणत्वात् महापाप्मा। सर्वपुरुषार्थविरोधित्वात् वैरी ॥३७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.