Bhagavad Gīta Bhāshya and Tātparya
B.G 3.17
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥१७॥
Gīta Bhāshya 3.17
तर्हि अतीव मनःसमाधानमपि न कार्यं इत्यत आह - यस्तु इति।
रमणं परदर्शनादिनिमित्तं सुखम्। तृप्तिः अन्यत्र अलम्बुद्धिः। सन्तोषः तज्जनकं सुखम्।
"सन्तोषस्तृप्ति कारणम्"
इत्यभिधानात्।
परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः। अन्यत्र सर्वात्मना अलम्बुद्धिं च। महच्च तत् सुखम्। तेनैव अन्यत्र अलम्बुद्धिरिति दर्शयति- "आत्मन्येव च सन्तुष्ट" इति। तत्स्थ एव सन् सन्तुष्ट इत्यर्थः। नान्यत् किमपि सन्तोषकारणम् इत्यवधारणम्। आत्मना तृप्तः। नहि आत्मनि अलम्बुद्धिः युक्ता। तद्वाचित्वं च
"वयं तु न वितृप्यामः उत्तमश्लोकविक्रमैः"
-इति प्रयोगात् सिद्धम्।
अध्याहारस्तु अगतिकागतिः।
आत्मरतिरेव इत्यवधारणात् असम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते।
"स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा। स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता॥"
इति वचनाच्च पञ्चरात्रे।
अन्यदा अन्यरतिरपि ईषत् सर्वस्य भवति। न च तत्र अलम्बुद्धि मात्रम् उक्तम्। 'आत्मतृप्तः ' इति पृथगभिधानात्।
कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धः-
"यो भुङ्क्ते स तु न ब्रूयात्"
इत्यादौ - अतोऽसम्प्रज्ञात समाधौ एव एतत्।
मानव इति ज्ञानिन एव असम्प्रज्ञातसमाधिर्भवतीति दर्शयति। "मनु अवबोधने" इति धातोः। परमात्मरतिश्चात्र विवक्षिता -
"विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि।"
इति वचनात् ॥१७॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Source and Copyright: The Sanskrit works of Madhvacharya reproduced here are ancient public-domain texts. Digital Sanskrit sources are acknowledged wherever applicable. The English translations, explanatory notes and original editorial material on madhva.in are © Madhukrishna Sudhindra, unless otherwise indicated.