B.G 3.17
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥१७॥
Gīta Bhāshya 3.17
तर्हि अतीव मनःसमाधानमपि न कार्यं इत्यत आह - यस्तु इति।
रमणं परदर्शनादिनिमित्तं सुखम्। तृप्तिः अन्यत्र अलम्बुद्धिः। सन्तोषः तज्जनकं सुखम्।
"सन्तोषस्तृप्ति कारणम्"
इत्यभिधानात्।
परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः। अन्यत्र सर्वात्मना अलम्बुद्धिं च। महच्च तत् सुखम्। तेनैव अन्यत्र अलम्बुद्धिरिति दर्शयति- "आत्मन्येव च सन्तुष्ट" इति। तत्स्थ एव सन् सन्तुष्ट इत्यर्थः। नान्यत् किमपि सन्तोषकारणम् इत्यवधारणम्। आत्मना तृप्तः। नहि आत्मनि अलम्बुद्धिः युक्ता। तद्वाचित्वं च
"वयं तु न वितृप्यामः उत्तमश्लोकविक्रमैः"
-इति प्रयोगात् सिद्धम्।
अध्याहारस्तु अगतिकागतिः।
आत्मरतिरेव इत्यवधारणात् असम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते।
"स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा। स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता॥"
इति वचनाच्च पञ्चरात्रे।
अन्यदा अन्यरतिरपि ईषत् सर्वस्य भवति। न च तत्र अलम्बुद्धि मात्रम् उक्तम्। 'आत्मतृप्तः ' इति पृथगभिधानात्।
कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धः-
"यो भुङ्क्ते स तु न ब्रूयात्"
इत्यादौ - अतोऽसम्प्रज्ञात समाधौ एव एतत्।
मानव इति ज्ञानिन एव असम्प्रज्ञातसमाधिर्भवतीति दर्शयति। "मनु अवबोधने" इति धातोः। परमात्मरतिश्चात्र विवक्षिता -
"विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि।"
इति वचनात् ॥१७॥