B.G 3.14, 15 and 16
अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिंद्रियारामो मोघं पार्थ स जीवति ॥१६॥
Gīta Bhāshya 3.14, 15 and 16
हेत्वन्तरमाह - अन्नात् इति।
यज्ञः पर्जन्यान्नत्वात् तत्कारणम् उच्यते। पूर्वयज्ञविवक्षायां चक्रप्रवेशो न भवति। तद्धि आपाद्यं कर्मविधये। न तु साम्यमात्रेण इदानीं कार्यम्।
मेघचक्राभिमानी च पर्जन्यः। तच्च यज्ञाद् भवति।
"अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥"
इति स्मृऽतेश्च।
उभयवचनात् आदित्यात् समुद्राच्चाविरोधः। अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति। यज्ञो देवताम् उद्दिश्य द्रव्यत्यागः। कर्म इतरक्रिया ॥१४ ॥
कर्म ब्रह्मणो जायते।
"एष ह्येव साधु कर्म कारयति"(कौषीतकि ब्राह्म ३.९), "बुद्धिर्ज्ञानम्"(का॰वृ॰ ३.२.१८८)
इत्यादिभ्यः।
न च मुख्ये सम्भाव्यमाने पारम्पर्येण औपचारिकं कल्प्यम्। न च जडानां स्वतः प्रवृत्तिः सम्भवति।
"एतस्य वा अक्षरस्य"
इत्यादि सर्वनियमनश्रुतेश्च।
"द्रव्यं कर्म च"
इत्यादेश्च अचिन्त्यशक्तिश्चोक्ता। जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा। "न कर्तृत्वम्"(५.१४) इत्यादिनिषेधाच्च।
अक्षराणि प्रसिद्धानि। तेभ्यो ह्यभिव्यज्यते परं ब्रह्म। अन्यथा अनादिनिधनम् अचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति।
न च रूढिं विना योगाङ्गीकारो युक्तः। परामर्शाच्च-
"तस्मात् सर्वगतं ब्रह्म"
इति।
न ह्येकेन शब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते।
तानि च अक्षराणि नित्यानि-
"वाचा विरूप नित्यया", "अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ", "अत एव च नित्यत्वम्"
इत्यादि श्रुति-स्मृति-भगवद्वचनेभ्यः।
दोषश्चोक्तः सकर्तृकत्वे। न च अबुद्धिपूर्वमुत्पन्नानि। तत्प्रमाणाभावात्। निःश्वसितशब्दस्तु आक्षेपाभिप्रायः नाबुदि्धपूर्वाभिप्रायः। "सोऽकामयत" - इत्यादेश्च। "इष्टं हुतम्" - इत्यादि रूपप्रपञ्चेन सह अभ्यधानाच्च।
महातात्पर्यविरोधाच्च। तच्चोक्तं पुरस्तात्। न ह्यस्वातन्त्र्येण उत्पत्तिकर्तुः प्राधान्यम्। अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति। यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि।
उत्पत्तिवचनानि अभिव्यक्त्यर्थानि अभिमानिदेवताविषयाणि च। "नित्या" इत्युक्त्वा "उत्सृष्टा" इति वचनात्। अभिव्यञ्जके कर्तृवचनं चास्ति-
"कृत्स्नं शतपथं चक्रे"
इति।
कथं आदित्यस्था वेदाः तेनैव क्रियन्ते।
वचनमात्राच्च निर्णयात्मकशारीरकोक्तं बलवत्। शास्त्रं योनिः प्रमाणं अस्येति तु शास्त्रयोनिम्। "जन्माद्यस्य यतः" इत्युक्ते प्रमाणं हि तत्रापेक्षितम्। न तु तस्य जातत्वं वेदकारणत्वं वा। नहि वेदकारणत्वं जगत्कारणत्वे हेतुः। न हि विचित्रजगत्सृष्ठेः वेदसृष्टिः अशक्या सृज्यत्वे। न च सर्वज्ञत्वे। यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा। तस्मात् वेदप्रमाणकत्वमेवात्र विवक्षितम्। अतो नित्यान्यक्षराणि।
यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मात् तत् नित्यं यज्ञे प्रतिष्ठितम्।
तानि च अक्षराणि भूताभिव्यङ्ग्यानि इति चक्रम् ॥१५॥
तदेतत् जगच्चक्रं यो नानुवर्तयति सः तद्विनाशकत्वात् अघायुः। पापनिमित्तमेव यस्यायुः सः अघायुः ॥ १६ ॥