B.G 2.14
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥
Gīta Bhāshya 2.14
तथाऽपि तद्दर्शनाभावादिना शोक इति चेत्- नेत्याह– मात्रास्पर्शा इति॥ मीयन्त इति मात्रा विषयाः। तेषां स्पर्शाः सम्बन्धाः। त एव शीतोष्णसुखदुःखदाः। देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः। ततश्च सुखदुःखे॥
नह्यात्मनः स्वतो दुःखादिः सम्भवति। कुतः? आगमापायित्वात्। यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः। अतो यतो मात्रास्पर्शा जाग्रदादावेव ते सन्ति नान्यदेति तदन्वयव्यतिरेकित्वात् तन्निमित्ता एव नात्मनः स्वतः॥
आत्मनश्च तैर्विषयविषयिभावसम्बन्धादन्यः सम्बन्धो नास्ति। न चागमापायित्वेऽपि प्रवाहरूपेणापि नित्यत्वमस्ति। सुप्तिप्रलयादावभावादित्याह– अनित्या इति॥
अतश्चात्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम्। अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न सम्भवति। अतोऽभिमानं परित्यज्य तान् शीतोष्णादीन् तितिक्षस्व ॥ १४ ॥