Gīta Bhāshya Introduction
देवं नारायणं नत्वा सर्वदोषविवर्जितम्। परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः॥
नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार।
ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदार्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनाम् अवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहिताम् अचीक्ऌपत् ॥ तच्चोक्तम् –
लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्॥
अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च॥
अन्यावताररूपैश्च वेदानुक्तार्थभूषितम्। केवलेनात्मबोधेन दृष्टं वेदार्थसंयुतम्॥
"वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्। भारतं पञ्चरात्रं च मूलरामायणं तथा॥ पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः॥"
- इति नारायणाष्टाक्षरकल्पे।
"ब्रह्मापि तन्न जानाति ईषत् सर्वोपि जानते। बह्वर्थमृषयस्तत्तु भारतं प्रवदन्ति हि॥"- इत्युपनारदीये
"ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह। यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः॥" - इति नारदीये।
"भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम्। दशावरार्थं सर्वत्र केवलं विष्णुबोधकम्। परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत्॥" - इति स्कान्दे।
"यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः। न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः॥" - (म.भा..१.१.२६८)
"इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति।" -म.भा.आदि..२९३
"मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथापरे। तथोपरिचराद्यन्ये भारतं परिचक्षते।" - म.भा.आदि.१.६६
"भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैः ऋषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्॥" - ब्रह्माण्डपुराणे
"महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।" - म.भा.१.३००
"यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्॥" - म.भा.आदि ५.५०
"विराटोद्योगसारवान्" - म भा.१.८९
इत्यादितद्वाक्यपर्यालोचनया, ऋषिसम्प्रदायात्,
"को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्" -वायुप्रोक्तवचनम्
इत्यादिपुराणग्रन्थान्तरगतवाक्यान्यथानुपपत्त्या, नारदाध्ययनादिलिङ्गैश्चावसीयते।
कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः?
प्रसिद्धश्च सोर्थः।
कथं चान्यस्य न कर्तुं शक्यते। न्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः। न च कर्तुरेव। इतरत्रापि साम्यात्।
तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबन्ध। तच्चोक्तम्–
"भारतं सर्वशास्त्रेषु भारते गीतिका वरा। विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद् द्वयम्॥" - इति महाकौर्मे।
"स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने" - म.भा.१३.१६.१२. ।
इत्यादि च।