B.G 18.48
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥४८॥
Gīta Tātparya 18.48
शमो दमः तपः शौचं क्षाञ्तिरार्जवमेव च। ज्नानं विज्नानमास्तिक्यं विप्रकर्म स्वभावजम्॥
एते गुणाः किञ्चिदोनाः विप्रात् क्षत्रिय एव च। अधिका वा ब्राह्मणेभ्यः केषुचित् चक्रवर्तिषु॥
ऋषयस्त्वेव विज्नेयाः कार्तवीर्यादयो न्रुपाः। शौर्यं तेजो ध्रुतिर्दाक्ष्यं युद्धे चाप्यपलायनम्॥
दानमीश्वरभावश्च क्ष्त्रियेऽन्ये गुणा अपि। क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः॥
तत ऊनः शमाद्यैः यः शुश्रूषुः शूद्र उच्यते। अधिकाश्चेद् गुणाः शूद्रे ब्राह्मणादिः स उच्यते॥
ब्राह्मणोऽप्यल्पगुणकः शूद्र एवेति कीर्तितः। नरोऽपि यो देवगुणो ज्ञेयो देवो नृतां गतः॥
इति च।
"स्वकर्मणा तमभ्यर्च्य"
इति वचनाच्च क्षत्रियादिष्वपि शमाद्यनुवृत्तिः ज्ञायते। न हि शमादिकं विना तस्य अभितोऽर्चनं भवति। सम्यक् शमादिभिः अर्चनं हि अभ्यर्चनम्। न हि शमादीन् विना सिद्धिं विन्दति।
"यज्ञदानतपः कर्म न त्याज्यम्"
इत्युक्तत्वाच्च।
"शमोमन्निष्ठता बुद्धेः दम इंद्रियनिग्रहः"
इत्युक्त्वाच्च भागवते।
न च क्षत्रियादिभिरपि शौचतपःशमादिभिः हीनैः भवितव्यमिति तत्तद्धर्मेषु उच्यते।
युक्ता हि एतैः सर्वैः र्गुणैः जनकतुलाधारादयः। अतो युद्धकाले अपलायनं ऐश्वर्यं च क्षत्रियस्य विशेषगुणौ।
तौ च, कृष्यादयः, जीवनार्थं शुश्रूषा, याजनं, जीवनार्थं प्रतिग्रहश्चेत्येत एव अन्येषां परधर्माः।
"शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेधिकाः। तद्धीना ब्राह्मणे तस्माद् वैश्ये शूद्रे ततोऽल्पकाः॥
अध्यापनं च शुश्रूषा जीवनार्थमृते सताम्। विप्रादिषु क्रमात् ज्ञेयाः शूद्रस्याध्यापनं विना॥
तस्मात् शूद्रोऽल्पशुश्रूषुः स्वभावात् जीवनं विना। एते नैसर्गिका भावाः स्याद्भावोऽन्योपि कुत्रचित्। बलाद् विरुद्धभावस्तु हेयः स्वाभाविकोऽपि यः॥
अनिसर्गोपि हि शुभो वर्धनीयः प्रयत्नतः। याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि। अपलायनं च शूद्राणां ब्रह्मक्षत्रार्थमिष्यते॥"
इति च।